Srimad Valmiki Ramayanam

Balakanda Sarga 70

Vasishta narrates Ikshwaku lineage !!

||om tat sat||

बालकांड
सप्ततितम स्सर्गः

ततः प्रभाते जनकः कृतकर्मा महर्षिभिः ।
उवाच वाक्यं वाक्यज्ञः शतानंदं पुरोहितम् ॥

स॥ ततः प्रभाते महर्षिभिः कृतकर्मा जनकः वाक्यज्ञः शतानंदम् पुरोहितम् (इदं) वाक्यं उवाच ॥

Then next morning having the works to be completed by the Rishis completed , the knowledgeable Janaka spoke to Satananda as follows.

भ्राता मम महातेजा यवीयानतिधार्मिकः ।
कुशध्वजैति ख्यातः पुरीम् अध्यवसत् शुभाम् ॥
वार्याफलक पर्यंतां पिबन्निक्षुमतीं नदीम् ।
सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम् ॥
तमहं द्रष्टुमिच्छामि यज्ञ गोप्ता स मे मतः ।
प्रीतिं सो sपिमहातेजा इमां भोक्ता मया सह ॥

स॥ मम भ्राता महातेजा यवीयानति धार्मिकः कुशध्वज इति ख्यातः वार्या फलक पर्यंतं इक्षुमतीं नदीं पिबन् इव (शुभां पुरीं) पुण्यसंकाशं पुष्पकं विमानमिव( शुभां पुरीं) सांकश्यां शुभां पुरीं अध्यवसत्॥तं यज्ञ गोफ्ता अहं द्रष्टुं इच्छामि । सः अपि महातेजा मया सह इमां भोक्ता । स मे मतः ।

"My brother, a follower of Dharma and a brilliant one, is known as Kusadhwaja. He lives in the holy city of Samkasya which looks like Pushpaka Vimana and which seems to be drinking the waters of the river Ikshumati,". He was the one who helped for the sacrifice and I want to see him. The supremely radiant one can take part in the happy events along with me. It is my wish".

एवमुक्तेतु वचने शतानंदस्य सन्निधौ ।
आगताः केचिदव्यग्रा जनकस्तान् समादिशत् ॥
शासनात्तु नरेंद्रस्य प्रययु श्शीघ्रवाजिभिः ।
समानेतुं नरव्याघ्रं विष्णुमिंद्राज्ञया यथा ॥

स॥ शतानंदस्य सन्निधौ एवं उक्ते तु केचित् अव्यग्राः आगताः । जनकः तान् समादिशत् ।| नरेंद्रस्य शासनात् नरव्याघ्रं समानेतुं शीघ्रवाजिभिः प्रययु यथा इंद्र आज्ञया विष्णुं ।

Even as he was saying this in the presence of Satananda some people who are steady in nature came there. Janaka then ordered them. Ordered by the king they went on horses which can travel fast to bring the tiger among men. They went like the messengers who went to Vishnu on orders from Indra.

सांकाश्यां ते समागत्य ददृशुश्च कुशध्वजम् ।
न्यवेदयन् यथावृत्तं जनकस्य च चिंतितम् ॥
तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाबलैः ॥।
आज्ञयाथ नरेंद्रस्य आजगाम कुशध्वजः ।
स ददर्श महात्मानं जनकं धर्मवत्सलम् ॥
सोs भिवाद्य शतानंदं राजानं चापि धार्मिकम् ।
राजार्हं परमं दिव्यं आसनं चाध्यरोहत ॥

स॥ ते सांकाश्यं समागत्य कुशध्वजं ददृशुः च । जनकस्य चिंतितं यथावृत्तं न्यवेदयन् च। अथ नृपतिः कुशध्वजः दूत श्रेष्ठैः महाबलैः तत् वृत्तं श्रुत्वा नरेंद्रस्य आज्ञया आजगाम ॥सः महात्मानं जनकं धर्मवत्सलं ददर्श॥सः धार्मिकं राजानं शतानंदं अपि अभिवाद्य राजार्हं परमं दिव्यं आसनं अध्यरोहित च ॥

Having reached the city of Samkasya, they met Kusadhwaja and conveyed the thoughts of Janaka as expressed. Then Kusadhwaja having heard the message through that strong and best of messengers came to Mithila following the orders of Janaka. (Then) He saw the king who is the follower of Dharma. He bowed to Satananda as well as the righteous king and took a celestial seat which is fit for kings.

उपविष्टावुभौ तौ तु भ्रातरावति तेजसा ।
प्रेषयमासतुर्वीरौ मंत्रि श्रेष्ठं सुदामनम्॥
गच्छ मंत्रिपते शीघ्रं इक्ष्वाकुं अमितप्रभम् ।
आत्मजैस्सह दुर्दर्षं आनयस्व स मंत्रिणम् ॥

स॥ तौ उभौ वीरौ भ्रातराः अति तेजसा उपविष्टौ मंत्रि श्रेष्ठं सुदामनम् प्रेषयामास ॥मंत्रिपते ! शीघ्रं गच्छ अमित प्रभं इक्ष्वाकुं दुर्धर्षं आत्मजैः सह स मंत्रिणं आनयस्व ॥

The highly radiant brothers who are great warriors sat down and sent for Sudama the best of ministers. "Oh Best counselors ! Please go quickly and bring the highly radiant King of Ikshwaku, the undefeated king, along with his sons and ministers".

औपकार्यं स गत्वा तु रघूणांकुलवर्थनम्।
ददर्श शिरसा चैनं अभिवाद्येदमब्रवीत् ॥
अयोध्याधिपतेर्वीर वैदेहो मिथिलाधिपः ।
स त्वां दृष्टुं व्यवसितः सोपाद्ध्याय पुरोहितम्॥
मंत्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा ।
सबंधुरगमत् तत्र जनको यत्र वर्तते ॥

स॥ स औपकार्यं गत्वा रघूणां कुलवर्धनम् ददर्श शिरसा च एनंअभिवाद्य इदं अब्रवीत् ।हे वीर अयोध्याधिपते । मिथिलाधिपः वैदेहः सः स उपाध्याय पुरोहितं त्वां दृष्टुं व्यवसितः ॥मंत्रिश्रेष्ठ वचः श्रुत्वा तदा राजा स ऋषिगणः सबंधुः यत्र जनकः वर्तते तत्र आगमत् ॥

He went and met the best of Raghu lineage. Bowing his head and paying obeisance spoke to him. "Oh Vira! Oh King of Ayodhya ! Vaideha , the king of Mithila wishes to see you along with the priests and gurus". Having heard the message from the best of ministers, the king along with the legions of Rishis and relatives went to the place where Janaka is.

स राजा मंत्रि सहितः सोपाध्याय स्सबांधवः ।
वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ॥
विदितं ते महाराज इक्ष्वाकुकुल दैवतम् ।
वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवान् ऋषिः ॥
विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः ।
एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ॥

स॥ मंत्रिसहितः स उपाध्याय स बांधवः सः वाक्यविदां श्रेष्ठः राजा वैदेहं इदं अब्रवीत् ॥ महाराज वसिष्ठः भगवान् ऋषिः इक्ष्वाकु कुलदैवतं सर्वेषु कृत्येषु वक्ता (इति) विदितं ॥धर्मात्मा वसिष्ठः विश्वामित्राभ्यनुज्ञातः सर्वैः महर्षिभिः सह एष वक्ष्यति मे यथाक्रमम् ॥

Along with his ministers gurus and relatives , the king who is expert in the way of speech, spoke to the king Janaka. "Oh King ! That the venerable Vasishta is the presiding deity of Ikshwvakus and speaker ( for us) in all the events is known. The venerable Vasishta in agreement with Viswamitra ad all other sages will tell, the way it should be told".

एवमुक्त्वा नरश्रेष्ठे राज्ञां मध्ये महात्मनाम् ।
तूष्णीं भूते दशरथे वसिष्ठो भगवान् ऋषिः ॥
उवाच वाक्यं वाक्यज्ञो वैदेहं स पुरोधसम् ॥।

स॥ दशरथे नरश्रेष्ठे राज्ञांमध्ये महात्मनाम् एवं उक्त्वा तूष्णीं भूते वाक्यज्ञो भगवान् ऋषिः वैदेहं स पुरोधसं वाक्यं उवाच ॥

Dasaratha , the best of men, having said so among that assembly of great people remained silent . Then the venerable sage who is expert in the usage of words spoke to Janaka and his priest.

अव्यक्त प्रभवो ब्रह्म शाश्वतो नित्य अव्ययः ।
तस्मान्मरीचिः संजज्ञे मरीचेः काश्यपस्सुतः ।
विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः ॥
मनुः प्रजापतिपूर्वं इक्ष्वाकुस्तु मनोः सुतः ।
तमिक्ष्वाकुं अयोध्यायां राजानं विद्धि पूर्वकम् ॥

स॥अव्यक्तप्रभवो ब्रह्म शाश्वतः नित्यः अव्ययः । तस्मात् मरीचिः संजज्ञे । मरीचेः सुतः काश्यपः। काश्यपात् जज्ञे विवस्वान् । मनुः वैवस्वतः स्मृतः ।मनुः पूर्वम् प्रजापतिः । मनोः सुतः इक्ष्वाकुः अस्तु। पूर्वकं तं इक्ष्वाकुं अयोध्यायां राजानं विद्धि ।

"The eternal, permanent and imperishable Brahma emerged from the unmaifest. From him is born Maricha. Maricha's son is Kasyapa . Kasyapa gave birth to Vivasvan. Manu was born of Vivasvan. Manu is the first Prajapati. Ikshvaku is the son of Manu. Know him to be the king of Ayodhya".

इक्ष्वाकोs स्तु सुत श्श्रीमान् कुक्षिरित्येव विश्रुतः ।
कुक्षेरथात्मज श्श्रीमान् विकुक्षि रुदपद्यत ॥
विकुक्षेस्तु महातेजा बाणः पुत्त्रः प्रतापवान् ।
बाणस्यतु महातेजा आनरण्यः प्रतापवान् ॥
अनरण्यात् पृथुर्जज्ञे त्रिशंकुस्तु पृथोसुतः ।
त्रिशंकोरभवत् पुत्त्रो दुंदुमारो महायशाः ॥
दुंदुमारान्महातेजा युवनाश्वोव्यजायत् ॥।

स॥ इक्ष्वाकः सुतः श्रीमान् कुक्षिः इति विश्रुतः एव । अथ कुक्षेः आत्मज विकुक्षिः उपपद्यत ।विकुक्षे पुत्त्रः महातेजा प्रतापवान् बाणः अस्तु। बाणस्यतु ( सुतः) महातेजा प्रतापवान् अनरण्यः (अस्तु)।| अनरण्यात् जज्ञे पृथुः । पृथोः सुतः त्रिशंकुः अस्तु । त्रिशंकोः पुत्त्रः महायशाः दुंदुमारो अस्तु । दुंदुमारात् महातेजा युवनाश्वो अजायत ॥

"Ikshvaku's son is the highly endowed Kukshi. Vikukshi is the son of Kukshi. Vikushi's son is the highly radiant Bana. Bana's son is the highly radiant Anaranya. Anaranya's son is Prithu . Prithu's son is Trisanku . Trisanku's son is the famous Dundumara. Dunduamara's son is Yavanasva."

युवनाश्वसुतस्त्वासीत् मांधात पृथिवीपतिः।
मांधातुस्तु सुतश्श्रीमान् सुसंधिरुदपद्यत ॥
सुसंधेरपि पुत्त्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ।
यशस्वी ध्रुवसंधिस्तु भरतो नामनामतः ॥
भरतात्तु महातेजा असितो नाम जातवान् ॥

स॥युवनाश्वस्य सुतः पृथिवीपतिः मांधात आसीत् । मांधातस्य सुतः श्रीमान् सुसंधिः उपपद्यत ॥सुसंधेः द्वौ पुत्रौ ध्रुवसंधिः प्रसेनजित् आसीत् । यशस्वी ध्रुवसंधिस्तु भरतो नाम नामतः ( सुतः अस्तु)। भरतात् तु महातेजा असितः नाम ( पुत्रः) जातवान् ।

"Yavanasva's son is Mandhaata . Mandhata gave birth to Susandhi who is well endowed. Susandhi had two sons Dhruvasandhi and Prasenajit. The famous Dhruvasandhi had a son by name Bharata. Bharata had a highly radiant son by name Asita".

यस्यैते प्रतिराजान उदपद्यंत शत्रवः ।
हैहयास्तालजंघाश्च शूराश्च शशिबिंदवः ॥
तांस्तु स प्रतियुध्यन् वै युद्धे राजा प्रवासितः ।
हिमवंतं उपागम्य भृगु प्रस्रवणे sवसत् ॥
असितोल्पबलो राजा मंत्रिभिः सहितस्तदा ।
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतम् ॥

स॥ यस्य प्रति शूराः हैहेयाः तालजंघाः शशिबिंदवः राजानः शत्रवः उदपद्यंत॥ तांस्तु युद्धे अप्रतियुध्यन् वै राजा प्रवासितः । सः अल्पबलः राजा असितः मंत्रिभिः सहितः हिमवंतं उपागम्य भृगु प्रश्रवणे अवसत् ॥ अस्य द्वे भार्ये गर्भिण्यौ बभूवतुः इति श्रुतम् ॥

"The kings of Hehaiya, Talajangha, Sasibindu who are powerful became his enemies. Unable to battle them the king retreated from the battle. The king with limited strength along with his ministers reached the Himalayan mountains and was living in the slopes where river Saraswati appeared. It is known that his two wives were pregnant at that time".

एका गर्भ विनाशाय सपत्न्यै सगरं ददौ ।
ततश्शेलवरं रम्यं बभूवाभिरतो मुनिः।
भार्गवश्च्यवनो नाम हिमवंतमुपाश्रितः ॥
तत्रैका तु महाभागा भार्गवं देववर्चसम् ।
ववंदे पद्मपत्राक्षी कांक्षंती सुतमात्मनः ॥
तं ऋषिं साभ्युपागम्य काळिंदी चाभ्यवादयत् ।
स तामभ्यवदद्विप्रः पुत्त्रेप्सुं पुत्त्रजन्मनि ॥

स॥ एका भार्या गर्भविनाशाय सपत्न्यै सगरम् ददौ । ततः रम्यं शैल वरं हिमवंतं उपाश्रितः भार्गवश्च्यवनो नाम मुनिः भभूव ॥तत्र एका महाभागा पद्मपत्राक्षी आत्मनः सुतं कांक्षंती देव वर्चसं भार्गवं ववंदे ॥सा काळिंदी तं ऋषिं अभि उपागम्य अभ्यवादयत् च । पुत्रेप्सुं पुत्रजन्मनि तं सः विप्रः अभ्यवदत् ॥

To destroy the pregnancy one of the wives poisoned the other. In that beautiful best of the places in Himalayas there was a sage by name Bhargava Chyavana. That highly distinguished lady with lotus eyes desirous of having a son made obeisance to that seer from Bhargava lineage. That lady ,Kalindi came near the Rishi and made obeisance to him. That Brahmin told that lady, who is desirous of a son and wishing for the birth of a son, as follows.

तवकुक्षौ महभागे सुपुत्त्रसुमहाबलः ।
महावीर्यो महातेजा अचिरात् संजनिष्यति ॥
गरेण सहित श्श्रीमान् माशुचः कमलेक्षणे ।
च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता ।
पतिशोकतुरा तस्मात् पुत्त्रं देवी व्यजायत ॥
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।
सह तेन गरेणैव जात स्स सगरोs भवत् ॥

स॥ महाभागे तव कुक्षौ सुमहाबलः सुपुत्त्रः महावीर्यः महातेजा अचिरात् संजनिष्यति ॥ कमलेक्षणे श्रीमान् गरेण सहितः माशुचः ॥ पतिशोकतुरा पतिव्रता राजपुत्री च्यवनं नमस्कृत्य पुत्त्रं देवी व्यजायत ॥सपत्न्या गरः तस्यै गर्भ जिंघासया दत्तः तेन गरेणैव सह जातः सः सगरो अभवत् ॥

'Oh Distinguished lady ! From this foetus you will soon have a mighty and highly radiant son. Oh Kamalakshi! Have no fear, he will bear the poison'. The auspicious lady who was sorrowing for her husband bowed to Chyavana and the lady gave birth to a son. Given poison to destroy the foetus by the step wife, and being born with poison made him to be called as "Sagara".

सगरस्यासमंजस्तु असमंजात् तथांशुमान् ।
दिलीपोंशुमतः पुत्त्रो दिलीपस्य भगीरथः ॥
भगीरथात् ककुत् स्थश्च ककुत् स्थस्यरघुस्सुतः ।
रघोस्तु पुत्त्र स्तेजस्वी प्रवृद्धः पुरुषादकः ॥

स॥ सगरस्याः असमंजः अस्तु । तथा असमंजात् अंशुमान् । अंशुमतः पुत्त्रो दिलीपः । दिलीपस्य भगीरथः । भगीरथात् ककुत्‍स्थः च । ककुत्‍स्थस्य सुतः रघुः । रघोः पुत्त्रः तेजस्वी पुरुषादकः प्रवृद्धः अस्तु ।

Sagara had a son Asamanjasa. Asamanjasa had a son by name Aamsuman. Asuman 's son is Dileepa. Dileepa had Bhagiratha. Bhagiratha had Kakutstha. Kakutstha had a son by name Raghu. The son of Raghu is the highly radiant Pravruddha.

कल्माषपादो ह्यभवत् तस्माज्जातस्तु शंखणः ।
सुदर्शन श्शंखणस्य अग्निवर्ण स्सुदर्शनात् ॥
शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुस्सुतः ।
मरोः प्रशुश्रुकस्त्वासीत् अंबरीषः प्रशुश्रुकात् ॥
अंबरीषस्य पुत्त्रो sभूत् नहूषः पृथिवीपतिः।
नहुषस्य ययातिस्तु नाभागस्तु ययातिजः ॥

स॥ (प्रवृद्धः) कल्मषादो हि अभवत् । तस्मात् जातस्तु शंखणः । शंखणस्य (सुतः) सुदर्शनः । सुदर्शनात् अग्निवर्णः ।|अग्निवर्णस्य (सुतः) शीघ्रगः । शीघ्रगस्य सुतः मरुः। मरोः प्रशुश्रुकः आसीत् । प्रशुश्रुकात् अंबरीषः ।|अंबरीषस्य पुत्रः पृथिवीपतिः नहूषः अभूत् । नहूषस्य ययाति अस्तु। ययातिजः सुतः नाभाग अस्तु ।

Pravruddha became Kalmashada. He had a son by name Samkhana. Samkhana's son is Sudarsana. Sudarsana's son is Agnivarna. Agnivarna's son is Seeghraga. Seeghraga's son is Maru. Maru has Prasusuka. Prasusuka has Amabarisha. Ambarisha had a son Nahusha who was the king of the earth. Nahusha had Yayati. Yayati's son is Nabhaga.

नाभागस्य बभूवाजो अजा द्दशरथो sभवत्।
अस्माद्दशरथा ज्जातौ भ्रातरौ रामलक्ष्मणौ ॥
आदिवंश विशुद्धानां राज्ञां परम धार्मिणाम् ।
इक्ष्वाकुकुल जातानां वीराणां सत्यवादिनाम् ॥

स॥ नाभागस्य अजः सुतः बभूव । अजात् सुतः दशरथो अभवत् । अस्मात् दशरथौ जातौ भ्रातरौ राम लक्ष्मणौ ॥ इक्ष्वाकुकुल जातानां राज्ञां आदिवंश विशुद्धानां परम धार्मिणां सत्यवादिनां ॥

"Nabhaga's son is Aja. Aja's son is Dasaratha. To this Dasaratha are born the brothers Rama and Lakshmana. These two born in the line of Ikshvaku are from the clean and auspicious dynasty, known to be the ultimate observers of Dharma, and the upholders of truth ".

रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप ।
सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ॥

स॥ हे नृप ! राम लक्ष्मणयोः अर्थे त्वत् सुते वरये । हे नरश्रेष्ठ सदृशाभ्यां सदृसे दातुं अर्हसि ॥

"Oh King ! Rama and Lakshmana are fit bride grooms for your daughters. O Best of men! It is most appropriate to give suitable ones to the suitable ones"

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे सप्ततितम स्सर्गः ॥
समाप्तं ||

Thus ends the seventieth Sarga of Balakanda in Ramayana

|| Om tat sat ||

 

 

 

||om tat sat ||